मानदीपिकोकरीत्या आत्मतत्त्वप्राप्ति विचारः
मानदीपिकोकरीत्या आत्मतत्त्वप्राप्ति विचारः
निरंजन हरिश्चन्द्र भट्ट:
Abstract
सर्वदेहभावोपलक्षित-सच्चिदानन्दस्वरूप-नित्य-शुद्ध-बुद्ध-मुक्तस्वभावप्राप्यनुकूलासकृद्ब्रह्मचिन्तनमेव मननम् इति विद्वद्भिः। तद्विहाय मानवः किञ्चिदक्षणिकमिच्छन्, “योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः कठोपनिषत् (२.२.७)” इतिरीत्या जननमरणरूपसंसारे पतितो पथिको भवति। उक्तं च श्रुतावपि “तदेव सक्तः सह कर्मणा लिङ्गं मनो यत्र निषक्तमस्य प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम्” [बृहदारण्यकोपनिषत् (४.४.६)] इति। तन्मनोनिभिः शास्त्रादेव तात्त्विक्यम्। तात्त्विकप्रत्ययोपादानात् साधुकारी साधुभवति पापकारी पापो भवति, यथाचारी भवतीति यावत्। एवं तत्र तत्र कामक्रोधादिपूर्वकपुण्यापुण्यमयत्वम्, देहात् देहान्तरसञ्चाररूप संसारस्य हेतुः। एवं अज्ञानतत्कार्यभूतस्य संसारस्य अपगमनाय नैक विध उपायान् असमूर्ध्वगाः अदुः। सर्वोपायानां च अन्तिमतया ब्रह्मज्ञाने पर्यवसानं कथितम्। एवं स्व मति विस्ताराय शिष्यश्रोत्रादाय च नैके ग्रन्थाः रचिताः। तत्र काशीपुरस्थबालब्रह्मानन्ददयः मानदीपिका इति ग्रन्थं दशसु प्रकरणेषु रचयामासुः। प्रकरणग्रन्थेष्वस्मिन् मानदीपिकाख्ये मोक्षसाधनतत्फलादि विषये विस्तृततया श्रुति स्मृत्यादि उद्धरणपूर्वकं ब्रह्मप्रतिपत्तिविषयं अनुग्राहयामासुः। सर्वविध दुःख जिहासार्थं स्वात्मतत्त्वप्रतिपत्तिः सर्वैः कर्तव्यमायं कार्यमिति विदितमेव। तत्र कर्मादीनां मोक्षकारणत्वं नैव भवितुमर्हति अनित्यत्वात्। श्रुति स्मृत्याधारेण निर्णीतं यत् ज्ञानमेव साक्षात् मोक्षकारणं भवतीति।
विशेष शब्दाः: मानदीपिका; सच्चिदानन्दस्वरूप; बृहदारण्यकोपनिषत्।
